Menu Close
LATEST POSTS
|10th संस्कृत एक पदेन उत्तरं लिखत|12th Class Half Yearly Paper 2026-27|9th संस्कृत अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत|एकपदेन उत्तरं लिखत|कक्षा 9 (शेमुषी भाग-1) उचितयुग्ममेलनम्|12th English Sample Paper 2026-27|कः/का कं/कां प्रति कथयति|कक्षा 9 शेमुषी भाग-1 – रिक्तस्थानानि पूरयत|11th Physics Practical|10th संस्कृत अभ्यासः – रिक्तस्थानानि पूरयत|Children’s Day Special Quiz | बाल दिवस सामान्य ज्ञान प्रश्नोत्तरी|Noun Clause, Adjective Clause and Adverb Clause Do As Directed|10th Science (विज्ञान) Chapter 13 हमारा पर्यावरण PDF Notes|10th Science (विज्ञान) Chapter 12  विद्युत धारा के चुम्बकीय प्रभाव PDF Notes|10th Science (विज्ञान) Chapter 11 विद्युत PDF Notes|10th Science (विज्ञान) Chapter 10 मानव नेत्र एवं रंगबिरंगा संसार PDF Notes|10th Science (विज्ञान) Chapter 9 प्रकाश-परावर्तन तथा अपवर्तन PDF Notes|10th Science (विज्ञान) Chapter 8 आनुवंशिकता PDF Notes|10th Science (विज्ञान) Chapter 7 जीव जनन कैसे करते है PDF Notes|10th Science (विज्ञान) Chapter 6 नियंत्रण एवं समन्वय PDF Notes

10th संस्कृत एक पदेन उत्तरं लिखत

1. अत्र जीवितं कीदृशं जातम्?

उत्तरम्: दुर्वहम् ।

2. अनिशं महानगरमध्ये किं प्रचलति?

उत्तरम्: कालायसचक्रम्।

3. कुत्सितवस्तुमिश्रितं किमस्ति?

उत्तरम्: भक्ष्यम्।

4. अहं कस्मै जीवनं कामये?

उत्तरम्: मानवाय ।

5. केषां माला रमणीया?

उत्तरम्: हरिततरुणां ललितलतानाम्।

6. बुद्धिमती कुत्र व्याघ्रं ददर्श?

उत्तरम्: गहनकानने।

7. भामिनी कया विमुक्ता?

उत्तरम्: निजबुद्ध्या ।

8. सर्वदा सर्वकार्येषु का बलवती?

उत्तरम्: बुद्धि: ।

9. व्याघ्र: कस्मात् बिभेति ?

उत्तरम्: मानुषात्।

10. प्रत्युत्पन्नमति: बुद्धिमती किम् आक्षिपन्ती उवाच्?

उत्तरम्: जम्बुकम्।

11. कुशलवौ कम् उपसृत्य प्रणमत: ?

उत्तरम्: श्रीरामम्।

12. तपोवनवासिन:कुशस्य मातरं केन नाम्ना आवह्वति?

उत्तरम्: देवी ।

13. वयोऽनुरोधात् क:लालनीय: भवति?

उत्तरम्: शिशुजन: ।

14. केन सम्बन्धेन वाल्मीकि: लवकुशयो: गुरु: ?

उत्तरम्: उपनयनोपदेशेन।

15. कुत्र लवकुशयो: पितु: नाम न व्यवह्रियते?

उत्तरम्: तपोवने।

16. वृषभ: दीन: इति जानन्नपि क: तं नुदन् आसीत्?

उत्तरम्: कृषक: ।

17. वृषभ: कुत्र पपात ?

उत्तरम्: क्षेत्रे ।

18. दुर्बले सुते कस्या अधिका कृपा भवति?

उत्तरम्: मातु: ।

19. कयो: एक: शरीरेण दुर्बल:आसीत्?

उत्तरम्: बलीवर्दयो: ।

20. चण्डवातेन मेघरवैश्च सह क: समजायत?

उत्तरम्: प्रवर्ष: ।

21. मनुष्याणां महान् रिपु: क: ?

उत्तरम्: आलस्यम्।

22. गुणी किं वेत्ति?

उत्तरम्: गुणम्।

23. केषां सम्पतौ च विपतौ च एकरूपता?

उत्तरम्: महताम्।

24. पशुना अपि कीदृश गृह्यते?

उत्तरम्: उदीरित: अर्थ: ।

25. उदयसमये अस्तमये च क: रक्त भवति?

उत्तरम्: सविता/सूर्य: ।

26. वनराज: कै: दुरवस्थां प्राप्त: ?

उत्तरम्: तुच्छजीवै: / वानरै: ।

27. क: वातावरणं कर्कशध्वनिना आकुलीकरोति?

उत्तरम्: काक: ।

28. काकचेष्ट: विद्यार्थी कीदृश छात्र: मन्यते?।

उत्तरम्: आदर्श: छात्र: ।

29. क: आत्मानं बलशालिनं, विशालकायं,पराक्रमिणं च मन्यते?

उत्तरम्: गज: ।

30. बक: कीदृशान् मीनान् क्रूरतया भक्षयति?

उत्तरम्: वराकान् ।

31. कीदृशे प्रदेशे पदयात्रा न शुभावहा?

उत्तरम्: विजने प्रदेशे।

32. अतिथि: केन प्रबुद्ध: ?

उत्तरम्: चौरस्य पादध्वनिना।

33. कृषकाय: क: आसीत्?

उत्तरम्: अभियुक्त: ।

34. न्यायधीश: कस्मै कारागारदण्डम् आदिष्टवान् ?

उत्तरम्: आरक्षिणे।

35. कं निकषा मृतशरीरम् आसीत्?

उत्तरम्: राजमार्गम् ।

36. पिता पुत्राय बाल्यं किं यच्छति?

उत्तरम्: विद्याधनम् ।

37. विमूढधी : कीदृशीं वाचं परित्यजति?

उत्तरम्: धर्मप्रदाम्।

38. अस्मिन् लोके के एव चक्षुष्मन्त: प्रकीर्तिता: ?

उत्तरम्: विद्वांस: ।

39. प्राणेभ्योऽपि क: रक्षणीय: ?

उत्तरम्: सदाचार: ।

40. आत्मन: श्रेय: इच्छन् नर: कीदृशं कर्मं न कुर्यात्?

उत्तरम्: अहितं कर्म।

41. वाचि का भवेत्?

उत्तरम्: अवक्रता /सरलता।

42. कस्य दारुण -विभिषिका गुर्जर क्षेत्रं ध्वंसावशेषु परिवर्तितवती?

उत्तरम्: भूकम्पस्य।

43. कीदृशानी भवनानि धाराशायीनि जातानि?

उत्तरम्: बहुभूमिकानि।

44. दुर्वार-जलधाराभि: किम् उपस्थितम्?

उत्तरम्: महाप्लावनदृश्यम्।

45. कस्य उपशमनस्य स्थिरोपाय नास्ति?

उत्तरम्: भूकम्पस्य।

46. कीदृशा: प्राणिन: भूकम्पेन निहन्यन्ते?

उत्तरम्: विवशा: ।

47. कस्य शोभा एकेन राजहंसेन भवति?

उत्तरम्: सरस: ।

48. सरस: तीरे के वसन्ति ?

उत्तरम्: बकसहस्र : ।

49. क: पिपासित: म्रियते?

उत्तरम्: चातक: ।

50. के रसालमुकुलानि समश्रयन्ते?

उत्तरम्: भ्रमरा: ।

51. अम्भोदा: कुत्र सन्ति?

उत्तरम्: गगने।


Related Topics