अधोलिखित प्रश्नानाम् उत्तराणि संस्कृत भाषायां पूर्णवाक्येन लिखत –
1. रामाय कुशलवयो: कण्ठाश्लेषसस्य स्पर्श: कीदृश: आसीत् ?
उ. रामाय कुशलवयो: कण्ठाश्लेषसस्य स्पर्श: ह्रदयग्राही आसीत्।
2. केन सम: बन्धु: नास्ति?
उ. उद्यमेन सम: बन्धु: नास्ति।
3. मयूर: कथं नृत्यमुद्रायां स्थित: भवति?
उ. मयूर: पिच्छान् उदघाट्य नृत्यमुद्रायां स्थित: भवति।
4. वस्तुत: चौर: क: आसीत्?
उ. वस्तुत: चौर: आरक्षी एव आसीत्।
5. सरस: शोभा केन भवति?
उ. सरस: शोभा राजहंसेन भवति।
6. सरस: तीरे के वसन्ति?
उ. सरस: तीरे बका: वसन्ति।
7. जन: किमर्थं पदाति: गच्छति?
उ. जन: धनस्य आभावेन पदाति गच्छति।
8. अस्माकं पर्यावरणे किं किं दूषितं भवति?
उ. अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं, धरातलं च दूषितं भवति।
9. व्याघ्र: किं विचार्य: पलायित: ?
उ. व्याघ्र: ‘इयम् काचित् व्याघ्रमारी’ इति विचार्य: पलायित:।
10. मातु: अधिका कृपा कस्मिन् भवति?
उ. मातु अधिका कृपा दुर्बले सुते भवति।
11. अन्ते प्रकृति माता प्रविश्य सर्वप्रथमम् किं वदति?
उ. अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमम् वदति यत् सर्वे जीवा: तस्या: सन्तति:। परस्पर: कलहं मा कुरु।
12. भूकम्पस्य केन्द्रबिंदु क: जनपद: आसीत्?
उ. भूकम्पस्य केन्द्रबिंदु कच्छ: जनपद: आसीत्।
13. समस्तराष्ट्रं कीदृशे उल्लासे मग्नम् आसीत्?
उ. समस्तराष्ट्रं गणतंत्र-दिवस-पर्वणि नृत्य-गीतवादित्राणाम् उल्लासे मग्नम् आसीत्।
14. मीन: कदा दीनां गतिं प्राप्नोति?
उ. यदा सर: संकोचम् अंचति तदा मीन: दीनां गतिं प्राप्नोति।
15. कानि पूरयित्वा जलद: रिक्त: भवति? उ. नानानदीनदशतानि पूरयित्वा जलद: रिक्त: भवति।
16. कुशलवयो: वंशस्य कर्ता क: ?
उ. कुशलवयो: वंशस्य कर्ता भगवान् सूर्य: अस्ति।
17. बुद्धिमति केन उपेता पितुर्गृहं प्रति चलिता?
उ. बुद्धिमती पुत्रद्वय: उपेता पितुर्गृहं प्रति चलिता।
18. सुरभि: इन्द्रस्य प्रश्नस्य किम् उत्तरं ददाति?
उ. सुरभि: इन्द्रस्य प्रश्नस्य उत्तरं ददाति यत् “हे वासव ! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि” इति । या सर्वेषु अपत्येषु जननी तुल्यवत्सला एव तथापि दुर्बले सुते मातु: अधिका कृपा भवति।
19. अस्माभि: कीदृश: वृक्ष: सेवितव्य: ?
उ. अस्माभि: फलच्छायासमन्वित: वृक्ष: सेवितव्य: ।
20. पिता पुत्राय बाल्ये किं यच्छति?
उ. पिता पुत्राय बाल्ये विद्याधनं यच्छति।
21. निर्धन: जन: कथं वित्तम् उपार्जितवान्?
उ. निर्धन: जन: भूरि परिश्रम्य वित्तम् उपार्जितवान्।
22. केषां विस्फोटैरपि भूकम्पो जायते?
उ. ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।
23. क: पिपासित: म्रियते?
उ. चातक: पिपासित: म्रियते।
24. लोके महतो भयात् क: मुच्यते?
उ. लोके महतो भयात् बुद्धमान् मुच्यते।
25. काकचेष्ट: विद्यार्थी कीदृश: छात्र: मन्यते?
उ. काकचेष्ट: विद्यार्थी आदर्श: छात्र: मन्यते।
26. वनराज: कै: दुरवस्थां प्राप्त: ?
उ. वनराज: तुच्छजीवै: दुरवस्थां प्राप्त:।
27. कस्य उपशमनस्य स्थिरोपाय: नास्ति?
उ. भूकम्पस्य उपशमनस्य स्थिरोपाय: नास्ति।
28. क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
उ. काक: वातावरणं कर्कशध्वनिना आकुलीकरोति।
29. नराणां प्रथम: शत्रु: क: ?
उ. नराणां प्रथम: शत्रु: क्रोध: अस्ति।
30. उदयसमये अस्तसमये च क: रक्त: भवति?
उ. उदयसमये अस्तसमये च सविता रक्त: भवति।
31. बक: कीदृशान् मीनान् क्रूरतया भक्षयति?
उ. बक: वराकान् मीनान् क्रूरतया भक्षयति।
32. कवि: किमर्थं प्रकृते: शरणम् गच्छति?
उ. नगरेषु जीवितं दुर्वहं जातम् अतः कवि: प्रकृते: शरणम् इच्छति।
33. तपोवनवासिन: कुशस्य मातरं केन नाम्ना आवह्वति?
उ. तपोवनवासिन: कुशस्य मातरं ‘देवी’ इति नाम्ना आवह्वति।
34. बालभावात् हिमकर: कुत्र विराजते?
उ. बालभावात् हिमकर: पशुपतिमस्तके विराजते।
35. कयो: एक: शरीरेण दुर्बल: आसीत्?
उ. बलीवर्दयो: एक: शरीरेण दुर्बल: आसीत् ।
36. कस्मात् कारणात् महानगरेषु संचरणं कठिनं वर्तते?
उ. महानगरेषु यानानाम् अनन्ता: पंक्तय: सन्ति एतस्मात् कारणात् संचरणं कठिनं वर्तते।
37. कवि: कुत्र संचरणं कर्तुम् इच्छति?
उ. कवि: एकान्ते कान्तारे संचरणं कर्तुम् इच्छति।
38. राम: लवकुशौ कुत्र उपवेशयितुम् कथयति?
उ. राम: लवकुशौ आसनार्धम् /स्वक्रोडे उपवेशयितुम् कथयति।
39. जननी कीदृशी भवति?
उ. जननी तुल्यवत्सला भवति।
40. वसन्तस्य गुणं क: जानाति?
उ. वसन्तस्य गुणं पिक: जानाति
41. इन्द्र: दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान् ?
उ. इन्द्र: दुर्बलवृषभस्य कष्टानि अपाकर्तुं वृष्टिम् कृतवान्।
42. नि:संशय: क: कृतान्त: मन्यते?
उ. य: सदा परै: वित्रस्तान् पीड्यमानान् जन्तून् न रक्षति स: कृतान्त: मन्यते।
43. यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उ. यदि राजा सम्यक् न भवति तदा प्रजा जलधौ अकर्णधारा नौ इव विप्लवेत् ।
44. अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्परा: भवन्ति?
उ. अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्परा भवन्ति।
45. माता सुरभि: किमर्थं अश्रुणि मुंचति स्म?
उ. भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभि: अश्रुणि मुंचति।
46. कृषक: किं करोति स्म?
उ. कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म ।
47. समग्रं विश्वं कै: आतंकित: दृश्यते?
उ. समग्रं विश्वं प्राकृतिक आपदाभि: आतंकित: दृश्यते।
48. चातक: किमर्थं मानी कथ्यते?
उ. चातक: पिपासित: म्रियते पुरन्दरं वा याचते एतेन मानी कथ्यते।
49. स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?
उ. स्वस्थजीवनाय स्वच्छवातावरणे भ्रमणीयम्।
50. बुद्धय: कीदृश्य: भवन्ति?
उ. बुद्धय: परेंगितज्ञानफला भवन्ति।